Wikimedia Education SAARC conference/Feedbacks/Soorya Hebbar

Hello, thanks for participating in Wikimedia Education SAARC conference. This is the feedback time.

Please write in details on areas such as

  • Event planning
  • Training
  • Logistics
  • Management
For private feedback, send an email to tito+wep(_AT_)cis-india.org. For unidentified feedback, please use this form

Please share your detailed feedback below:

  • Please summarize your experience in this conference in 2-3 sentences? (How was your experience, was it helpful? Be innovative! You may write in text, or upload a video/audio etc)
A:सम्मेलनं बहु सम्यक् आसीत्। प्रथमवारम् अहं विकिसम्मेलने भागं गृहीतवान्। अहं यद्यपि विकिमध्ये एकवर्षादारभ्य कार्यं कुर्वन्नस्मि तथापि विकिलोकः एतावान् विशालः अस्ति इति अहं न ज्ञातवान् आसम्। तत्रापि शिक्षणविषये एव विकि एवं चिन्तयति इति तु मम कल्पना एव नासीत्। अहमपि अनेकेषु विद्यालयेषु पूर्वं विकिप्रशिक्षणेषु भागं गृहीतवान्। परन्तु अग्रिमाः कार्यक्रमाः कथम् उत्तमतया चालनीयाः इति काचिद् दृष्टिः विकिसम्मेलनतः लब्धा।
  • In a scale of 1–5 (where 1 means the lowest and 5 means the highest), would you join a similar conference in future and why? (write in details, please)
A:4. अहम् एतादृशेषु सम्मेलनेषु पुनरपि भागं गृहीतुम् इच्छामि। यतो हि अत्र कृतस्य कार्यस्य विषये चिन्तनं कृत्वा समस्याः परिहर्तुं शक्यन्ते। अग्रिमयोजनाः रूपयितुमपि एतादृशसम्मेलनं सहकारि भवति। अन्यभाषा विकिजनाः यानि कार्याणि कृतवन्तः तानि अस्माकं भाषायामपि कर्तुं मार्गदर्शनं लभ्यते। अस्माकं भाषायां कृतस्य विशिष्टस्य सफलस्य च कार्यस्य विषये विनिमयः अपि शक्यते।
  • Please explain in details what went well during the conference?(write in details, please)
A:अन्यभाषाविकिजनाः स्वभाषायां विकिक्षेत्रे कृतानि कार्याणि विस्तरेण विवृतवन्तः। अस्माकं भाषायां करणीयस्य कार्यस्य दृष्टिः अनेन लब्धा। वैदेशिकाः अपि विद्वांसः कथं विकिशिक्षणं दातव्यम् इति बोधितवन्तः। गणकार्यस्य उपस्थापनेन अग्रिमकार्यस्य मूर्तरूपम् प्राप्तम्।
  • Please explain in details what would you have liked to be different and why?(how could we improve the conference, write in details, please)
A:द्वितीयदिने पत्रप्रस्तुत्यवसरे गणद्वये विभागः कृतः आसीत्। तेन सर्वान् विषयान् ज्ञातुं न शक्तवन्तः। अतः अत्र किञ्चित्परिवर्तनम् आवश्यकम्। गणकार्यकरणावसरे यद्यपि गणरूपेण एकः अंशः प्रस्तोतव्यः इति सूचना आसीत्, तथापि अनेकेषु गणेषु स्वचिन्तनानि एव प्रस्तुतवन्तः। तत्र प्रस्तुतिकाले स्वगणस्य प्रस्तुतेः उपरि एव अस्माकं लक्ष्यम् आसीत्। अन्येषां गणानां प्रस्तुतिं सावधानेन मनसा न श्रुतवन्तः। प्रस्तुत्यनन्तरं ज्येष्ठैः गणप्रस्तुतेः विषयेऽपि किञ्चित् वक्तुमशक्ष्यन्।
  • How do you plan to use and share your learning in near future?
A:संस्कृतविश्वविद्यालयेषु कार्यशालाणाम् आयोजनेन संस्कृतविकिस्रोतसि ग्रन्थानां परिष्कारे जनान् योजयामि। ततः तत्र प्राप्तान् आसक्तान् सङ्गृह्य विकिपीडियायां लेखलेखनप्रशिक्षणं दत्त्वा विकिकार्येषु योजयितुमिच्छामि।
  • Do you have anything to share?
A:संस्कृतविकिस्रोतसि तन्त्रज्ञानादिविषये संस्कृतजनानां तथा ज्ञानं नास्ति। यदि संस्कृतविश्वविद्यालयेषु कार्यशाला आयोजनीया तर्हि कथं तत्र सञ्चालनं करणीयम् इति विषये स्पष्टता नास्ति। अस्माभिः सह विकिपीडियाफौण्डेशन् द्वारा नियोजितः कश्चन अनुभवी भवति चेत् शिक्षणक्षेत्रे विद्यते चेदुपकाराय भवति।