श्रीकान्त हेगडे इति नामाङितोऽहं संस्कृतानुरागी संस्कृतभाषाविषये सदा जिज्ञासुः च वृत्यनुगुणं संस्कृतभाषाबोधकः । विकिपिडियायां , विकिस्रोतसि च किञ्चिद्योगदानम् आचरितवान् । <poem> भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती । तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्

इति सुभाषितस्य सारानुगुणं गीर्वाणवाण्यां सुभाषितानां विषये विशिष्टं स्थानं वर्तने । अस्मिन् विकिकुटुम्बे सुभाषितानं प्रवेशः यदि न भवति तर्हि अयम् अपूर्णः एव स्यात् । अतः अत्रापि किञ्चित्कर्तुकामः पादन्यासं कृतवान् । वर्धतां संस्कृतसूक्तिसम्पत् प्रवहतु सुभाषितरसवाहिनी । आत्मसुखाय लोकहिताय च यतामहे ।